Class 10 Sanskrit important question 2021 MP board

Class 10 Sanskrit important question 2021 MP board


स्वागत है आपका हमारी इस वेबसाइट पर आज की पोस्ट क्लास 10th के छात्रों के लिए बहुत ही महत्वपूर्ण होने वाली है क्योंकि इस पोस्ट में हम आपके लिए class 10 संस्कृत के कुछ महत्वपूर्ण प्रश्न आपके लिए बताने वाले हैं अगर आप भी क्लास 10th के छात्र हैं और एमपी बोर्ड परीक्षा की तैयारी कर रहे हैं तो आप इस पोस्ट को एक बार पूरा ध्यान से अवश्य पढ़ें। इस पोस्ट में आपको क्लास 10th संस्कृत के 30 important question देखने को मिलेंगे जिन्हें आप याद अवश्य करें।

क्लास 10th संस्कृत important question 2021

निर्देश - अधोलिखितेषु प्रश्नेषु दशमः प्रश्नानाम् उत्तराणि संस्कृत भाषायाम् लिखत -

1. वृक्षस्य आधारभूता का?
उत्तरम् - वृक्षस्य आधारभूता भूमाता अस्ति।

2. दयानन्दः केषां प्रचारमकरोत् ?
उत्तरम् - दयानन्दः चिरोपेक्षितवेदानां प्रचारमकरोत् ।

3. सन्त: कानिघ्नन्ति?
उत्तरम् - सन्तः पापं, तापं, दैन्यं च घ्नन्ति।

4. कस्य अभिनिष्क्रमणसंस्कारः अस्ति?
उत्तरम् - राहुलस्य अभिनिष्क्रमणसंस्कारः अस्ति।

5. वर्षाकाले धरणी कैः वितृप्ता भवति?
उत्तरम् - वर्षाकाले धरणी नवै: जलौघैः वितृप्ता भवति।

6. मानवजीवनस्य उन्नत्यै अतिमहत्त्वपूर्ण किं भवति?
उत्तरम् - मानवजीवनस्य उन्नत्यै अतिमहत्त्वपूर्ण समयस्य सदुपयोगः भवति।

7. कस्याः अपरं नाम भागीरथी?
उत्तरम् - गङ्गाया अपरं नाम भागीरथी।

8. मैत्रेयी सीतायै केषां ज्ञानं दत्तवती?
उत्तरम् - मैत्रेयी सीतायै वेदानां संस्काराणाम् इन्द्रियनिग्रहणस्य च ज्ञानं दत्तवती।

9. छत्रसालः कस्य शिष्यः आसीत् ?
उत्तरम् - छत्रसाल: स्वामिप्राणनाथस्य शिष्यः आसीत्।

10. विदिशामध्ये किं नाम स्मारको वर्तते?
उत्तरम्-विदिशामध्ये 'लोहाङ्गी' नाम स्मारको वर्तते।

11. गुप्तकालस्य माहात्म्यगाथा काः प्रगायन्ति?
उत्तरम् - गुप्तकालस्य माहात्म्यगाथां उदयगिरि गुहां प्रगायन्ति।

12.क: मृतोऽपि जीवति?
उत्तरम् - यः समाजहितं चिन्तयति सः मृतोऽपि जीवति।

13. संस्कृतभाषा कस्य पोषणं करोति?
उत्तरम् - संस्कृत भाषा विश्वबन्धुत्वस्य पोषणं करोति।

14. सर्वप्राचीना भाषा का अस्ति?
उत्तरम् - सर्वप्राचीना भाषा संस्कृत भाषा अस्ति।

15. कृषीबलैः काः समेधिता: भवन्तु ?
उत्तरम् - कृषीवलैः धान्यवृद्धयः समेधिताः भवन्तु।

16. दयानन्दस्य जन्मनाम किम् आसीत् ?
उत्तरम् - दयानन्दस्य जन्मनाम मूलशङ्करः आसीत्।

17. कीदृशो वह्निः स्वयम् उपशाम्यति?
उत्तरम् - अतृणे पतित: वह्निः स्वयम् उपशाम्यति।

18. सुतापेक्षी कः आसीत् ?
उत्तरम् - सुतापेक्षी वृद्धः आसीत्।

19. कः जीवन्नपि मृतः एव ?
उत्तरम् - यः स्वार्थमात्रं चिन्तयति सः तु जीवन्नपि मृतः एव।

20. मैक्समूलर: संस्कृतविषये किमुक्तवान्?
उत्तरम् - मैक्समूलरः उक्तवान् यत् - "संस्कृतं विश्वस्य महत्तमा भाषा अस्ति।"

21. वीरबन्धवः किं कुर्वन्तु ?
उत्तरम् - वीरबन्धवः पुसतनं स्वपौरुषं स्मरन्तु अद्य शेषताम् प्रयान्तु शत्रवोऽद्य पापसिन्धवः ।

22. मनुष्यस्य यौवनं विलासश्च कदा शोभते ?
उत्तरम् - जरा व्याधिं मृत्युंच विजित्यैव मनुष्यस्य यौवनं विलासश्च शोभते ।

23. वर्षाकाले मृगेन्द्राः कीदृशाः भवन्ति ?
उत्तरम् - वर्षाकाले मृगेन्द्राः विक्रान्ततरा भवन्ति।

24. कीदृशाः छात्राः उच्चनागरिकाः अभवन् ?
उत्तरम् - ये छात्राः क्षणं-क्षणं संयोज्य विद्याध्ययने समयस्य सदुपयोगं कृतवन्तः ते एव उच्चनागरिकाः अभवन्।

25. भगीरथः कान् स्वर्गं नेतुं निश्चितवान् ?
उत्तरम् - भगीरथ: स्वपूर्वजान् स्वर्ग नेतुं निश्चितवान्।

26. धनेन किं न प्राप्यते?
उत्तरम् - धनेन अमृतत्वं न प्राप्यते।

27. छत्रसालस्य जन्म कस्मिन् जनपदे अभवत् ?
उत्तरम् - छत्रसालस्य जन्म टीकमगढ़ जनपदे अभवत्।

28. विदिशानगरी कस्मिन् प्रदेशे स्थिता विद्यते?
उत्तरम् - विदिशानगरी मध्यप्रदेशे स्थिता विद्यते।

Post a Comment

और नया पुराने